Sanskrit Sample Question Paper Class 12 Term-2 2021-22

Hello welcome to Darkrown.com👑
Iss post me aap dekhoge👁️👁️ Class👩‍🏫 12th ke subject 🕉️Sanskrit🐄 (Core)  ka Sample paper📄 term-2 2021-2022 hindi medium🇮🇳 ke students👩‍🎓👨‍🎓 ke liye.

विषयः संस्कृतम् (केन्द्रिकम्)
आदर्शप्रश्नपत्रम्

कोड: 322
कक्षा: द्वादशी
समय: होराद्वयम्
सम्पूर्णांङ्का: 40
सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 8 पृष्ठानि मुद्रितानि सन्ति।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 प्रमुखाः प्रश्नाः सन्ति।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयाः।
  • प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

वर्णनात्मकाः प्रश्नाः

40 अङ्काः

अपठितावबोधनम्

प्रश्न.1 अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत –

10

अधुना योगदर्शनस्य चर्चा सर्वत्र भवति। एतद् दर्शनं न केवलम् अतिप्राचीनम् अपितु नितान्तं वैज्ञानिकं दर्शनम्’ अस्ति। महर्षिः पतञ्जलिः योगदर्शनम् उपदिष्टवान्। भारते एव योगदर्शनस्य आविर्भावः अभवत्। योगः देहात्मनोः प्रत्यक्षं वैज्ञानिकं साधनमस्ति। एतद्दर्शने शरीरस्य मनसः अपि नियमनं वर्णितम्। योगस्य परिभाषा अस्ति– “योगः चित्तवृत्तिनिरोधः”। चित्तवृत्तीनाम् अवरोधनेनैव योगस्य संसिद्धिः। अस्याम् अवस्थायां जीवः स्वरूपम् अधिगच्छति। योगस्य अष्ट अङ्गानि भवन्ति – यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः चेति। अस्माभिः जीवने सदा योगः सेवनीयः यतः योगेन जीवने नीरोगता आयाति।

(अ) एकपदेन उत्तरत – (केवलंं प्रश्नचतुष्टयम्)

½×4=2

(i) अधुना कस्य दर्शनस्य चर्चा सर्वत्र भवति?

उत्तर: योगदर्शनस्य

(ii) योगदर्शनं कः उपदिष्टवान्?

उत्तर: महर्षि पतञ्जलिः

(iii) योगस्य कति अङ्गानि सन्ति?

उत्तर: अष्ट

(iv) योगदर्शनस्य आविर्भावः कुत्र अभवत्?

उत्तर: भारते

(v) केषाम् अवरोधनेन योगस्य संसिद्धिः भवति?

उत्तर: चित्तवृत्तीनाम्

(आ) पूर्णवाक्येन उत्तरत – (केवलंं प्रश्नद्वयम्)

2×2=4

(i) योगस्य परिभाषा का अस्ति?

उत्तर: “योगः चित्तवृत्तिनिरोधः”।

(ii) अस्माभिः जीवने किमर्थं योगः सेवनीयः?

उत्तर: यतः योगेन जीवने नीरोगता आयाति।

(iii) योगस्य अष्टाङ्गानां नामानि लिखत?

उत्तर: योगस्य अष्ट अङ्गानि भवन्ति – यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः चेति।

(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

1×1=1

उत्तर: योगदर्शनम्/ योगस्य महत्त्वम्/ योगस्य अङ्गानि अथवा छात्रैः लिखितानि पदानि दृष्ट्वा शुध्दाशुध्दनिर्णयः छात्रहिताय कर्तव्यः।

(ई) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्)

1×3=3

(i) “तिरोभावः” इत्यस्य विलोमपदं किम्?

उत्तर: आविर्भावः

(ii) “पुरातनम्” इत्यर्थे कः शब्दः अत्र प्रयुक्तः?

उत्तर: अतिप्राचीनम्

(iii) “अधुना योगदर्शनस्य चर्चा सर्वत्र भवति” अत्र क्रियापदं किम्?

उत्तर: भवति

(iv) “वैज्ञानिकं साधनम्” विशेषणपदं किं?

उत्तर: वैज्ञानिकम्

Main har ek question❓ ko ek ek karke solve📝 karta hoon aur add📎 karta rehta hoon. Taki koi question answer galat🙅‍♀️ na ho. Iss ka matlab aap agle⏩ question❓ ke liye iss site Darkrown.com👑 ko bookmark📑 kar sakte hain.

Aur tab tak aap baki ke question❓ paper📄 ko bhi visit kar sakte hain.

Iske alawa agar aapko iss sample question paper me koi galti❌ nazar🔎 aayi ho toh comment⌨️ karke zarur bataye.
Main jald se jald us galti ko sudhar✔️ lunga.

Aur jab sare questions❓ solve ho jayenge to main pdf ki link🔗 bhi de dunga.

Ok toh fir milte hain next post me tab tak ke liye B-bye🙋‍♂️

Leave a Reply

Your email address will not be published. Required fields are marked *